सनि लिटि च प्रत्यये जेः अङ्गस्य यो ऽभ्यासः तस्मादुत्तरस्य कवर्गाऽदेशो भवति। जिगीषति। जिगाय। सन्लिटोः इति किम्? जेजीयते। जिनातेः सम्प्रसारणे कृते यद्यपि जिर्भवति, तथापि लाक्षणिकत्वात् तस्य ग्रहणं न भवति, जिज्यतुः, जिज्युः इत्येव भवति।
"जिगीषति जिगाय" इति। "आदेः परस्य"
१।१।५३ इति परस्यादेर्जकारस्य कुत्वम्(), "ज्या वयोहानौ" (धा।पा।१४९९) इत्यसय लिट्()।
ग्रहिज्यादिसूत्रेण
६।१।१६ सम्प्रसारणे कृते परपूर्वत्वे च जिरत्येष रपविशेषो भवति। अतस्तस्यापि कुत्वं प्राप्नोति, जिग्रहणेन ग्रहणात्()। न च शक्यते वक्तुम्(), "हलः"
६।४।२ इति दीर्घत्वे कृते जिग्रहणेन ग्रहणं न भविष्यति, एकदेशविकृतस्यानन्यत्वात्(); (व्या।प।१६) अन्यथा हि जिगीषतीत्यत्रापि "अज्झनगमां सनि"
६।४।१६ इति दीर्घत्वे कृते जिग्रहणेन ग्रहणं न भविष्यति।
अथ वा--प्रागेव दीर्घात्? परत्वात्? कुत्वेन भवितव्यमिति यश्चोदयेत्(), तं प्रत्याह--"जिनातेः" इत्यादि। लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।३) "जि जये" (धा।पा।५६१) इति यः पठ()ते, तस्यैवेदं प्रतिपदोक्तस्य ग्रहणम्(), न जिनातेः। सम्प्रसारणे कृते यज्जीरूपं सम्पदयते, तस्य लाक्षणिकत्वात्()। "जिज्यतुः, जिज्युः" इति। "लिट्, अतुस्(), उस्(), "एरनेकाचोऽसंयोगपूर्वस्य"
६।४।८२ इति यणादेशः॥
सँल्लिटोर्जेः। शंल्लिण्निमित्त इति। यदि तु सनि लिटि च परे योऽभ्यास इति प्राचो व्याख्यानमाद्रियेत तदा "येन नाव्यवधान" न्यायेन प्रकृतिव्यवधानं सोठव्यमेव, परं तु यङ्लुगन्तात्सनि जेजयिषतीत्यत्र कुत्वं स्यात्, न च तन्माधवग्रन्थसंमतमिति भावः।